सर्वहरशब्दस्य मुख्यं अर्थान्तरं आह -
अथवेति ।
भाविकल्याणानां इत्युक्तमेवस्पष्टयति -
उत्कर्षेति ।
कीर्तिः - धार्मिकत्वनिमित्ता ख्यातिः । श्रीः - लक्ष्मीः, कान्तिः - शोभा । वाक् - वाणी सर्वस्य प्रकाशिका, स्मृतिः - चिरानुभूतस्मरणशक्तिः, मेधा - ग्रन्थधारणशक्तिः, धृतिः - धैर्यम् , क्षमा - मानापमानयोः अविकृतचित्तता - स्त्रीषु कीर्त्यादीनां उत्तमत्वं उपपादयति -
यासामिति
॥ ३४ ॥