श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा
तत्तदेवावगच्छ त्वं मम तेजोंशसम्भवम् ॥ ४१ ॥
यद्यत् लोके विभूतिमत् विभूतियुक्तं सत्त्वं वस्तु श्रीमत् ऊर्जितमेव वा श्रीर्लक्ष्मीः तया सहितम् उत्साहोपेतं वा, तत्तदेव अवगच्छ त्वं जानीहि मम ईश्वरस्य तेजोंशसम्भवं तेजसः अंशः एकदेशः सम्भवः यस्य तत् तेजोंशसम्भवमिति अवगच्छ त्वम् ॥ ४१ ॥

अनुक्त अपि परस्य विभूतीः सङ्ग्रहीतुं लक्षणमाह -

यद्यदिति ।

वस्तु - प्राणिजातं, श्रीमत् - समृद्धिमद्वा कान्तिमद्वा सप्राणं बलवदूर्जितं तदाह -

उत्साहेति ।

सम्भवति अस्मादिति सम्भवः तेजसः चैतन्यस्य ईश्वरशक्तेर्वा अंशः तेजोंशः सम्भवः अस्य इति तेजोंश सम्भवात् । तदाह -

तेजस इति

॥ ४१ ॥