श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
श्रीभगवानुवाच —
पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः
नानाविधानि दिव्यानि नानावर्णाकृतीनि ॥ ५ ॥
एवं चोदितः अर्जुनेन भगवान् उवाच —

अर्जुनं अतिभक्तं सखायं प्रार्थितप्रतिश्रवणेन आश्वासयितुमाह-

एवमिति

॥ ५ ॥