श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥ ८ ॥
तु मां विश्वरूपधरं शक्यसे द्रष्टुम् अनेनैव प्राकृतेन स्वचक्षुषा स्वकीयेन चक्षुषायेन तु शक्यसे द्रष्टुं दिव्येन, तत् दिव्यं ददामि ते तुभ्यं चक्षुःतेन पश्य मे योगम् ऐश्वरम् ईश्वरस्य मम ऐश्वरं योगं योगशक्त्यतिशयम् इत्यर्थः ॥ ८ ॥

सप्रपञ्चं अनवच्छिन्नं मां स्वचक्षुषा न शक्नोषि द्रष्टुं इत्याह-

न तु इति ।

कथं तर्हि त्वां द्रष्टुं शक्नुयाम् इत्याशङ्क्य आह-

येनेति ।

दिव्यस्य चक्षुषः वक्ष्यमाणयोगशक्त्यनिशयदर्शने विनियोगं दर्शयति-

तेनेति

॥ ८ ॥