श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सञ्जय उवाच
एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः
दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥ ९ ॥
एवं यथोक्तप्रकारेण उक्त्वा ततः अनन्तरं राजन् धृतराष्ट्र, महायोगेश्वरः महांश्च असौ योगेश्वरश्च हरिः नारायणः दर्शयामास दर्शितवान् पार्थाय पृथासुताय परमं रूपं विश्वरूपम् ऐश्वरम् ॥ ९ ॥

इमं वृत्तान्तं धृतराष्ट्राय सञ्जयो निवेदितवात् इत्याह-

सञ्जय इति ।

मदीयं विश्वरूपाख्यं रूपं न प्राकृतेन चक्षुषा निरीक्षितुं क्षमम् । किन्तु दिव्येन इत्यादि यथोक्तप्रकारः । अनन्तरं - दिव्यचक्षुषः प्रदानात् इति शेषः । हरति अविद्यां सकार्यां इति हरिः ।

यत् ईश्वरस्य मायोपहितस्य परमम् उत्कृष्टं रूपम् तत् दर्शयाम्बभूव इत्याह-

परमम् इति

॥ ९ ॥