मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
श्रीमद्भगवद्गीताभाष्यम्
एकादशोऽध्यायः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
आनन्दगिरिटीका (गीताभाष्य)
दिवि
सूर्यसहस्रस्य
भवेद्युगपदुत्थिता
।
यदि
भाः
सदृशी
सा
स्याद्भासस्तस्य
महात्मनः
॥ १२ ॥
दिवि अन्तरिक्षे तृतीयस्यां वा दिवि सूर्याणां सहस्रं सूर्यसहस्रं तस्य युगपदुत्थितस्य सूर्यसहस्रस्य या युगपदुत्थिता भाः, सा यदि, सदृशी स्यात् तस्य महात्मनः विश्वरूपस्यैव भासः । यदि वा न स्यात् , ततः विश्वरूपस्यैव भाः अतिरिच्यते इत्यभिप्रायः ॥ १२ ॥
यदि वेति
;
सा कथञ्चित् सदृशी सम्भवति, न तु भवत्येव, इति विवक्षित्वा आह-
यदि वेति
॥ १२ ॥