श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा
अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥ १३ ॥
किञ्च —

न केवलम् उक्तमेव अर्जुनो दृष्टवान् ; किन्तु, तत्रैव - विश्वरूपे सर्वं जगत् , एकस्मिन् अवस्थितम् अनुभूतवान् , इत्याह-

किञ्चेति ।

तदा - विश्वरूपस्य भगवद्रूपस्य दर्शनदशायाम् , इत्यर्थः

॥ १३ ॥