श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ततः विस्मयाविष्टो हृष्टरोमा धनञ्जयः
प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥ १४ ॥
ततः तं दृष्ट्वा सः विस्मयेन आविष्टः विस्मयाविष्टः हृष्टानि रोमाणि यस्य सः अयं हृष्टरोमा अभवत् धनञ्जयःप्रणम्य प्रकर्षेण नमनं कृत्वा प्रह्वीभूतः सन् शिरसा देवं विश्वरूपधरं कृताञ्जलिः नमस्कारार्थं सम्पुटीकृतहस्तः सन् अभाषत उक्तवान् ॥ १४ ॥

विश्वरूपधरस्य भगवतः, तस्मिन् एकोभूतजगतश्च उक्तविशेषणस्य दर्शनानन्तरं किम् अकरोत् ? इत्यपेक्षायाम् आह-

तत इति ।

आश्चर्यबुद्धिर्विस्मयः, रोम्णां हृष्टत्वं पुलकितत्त्वं, प्रकर्षो भक्तिश्रद्धयोरतिशयः

॥ १४ ॥