श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अर्जुन उवाच —
पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्घान्
ब्रह्माणमीशं कमलासनस्थमृषींश्च सर्वानुरगांश्च दिव्यान् ॥ १५ ॥
कथम् ? यत् त्वया दर्शितं विश्वरूपम् , तत् अहं पश्यामीति स्वानुभवमाविष्कुर्वन् अर्जुन उवाच —

कथं भगवन्तं प्रति अर्जुनो भाषितवान् ? इति पृच्छति-

कथमिति ।

तत्प्रश्नम् अपेक्षितं पूरयन् अवतारयति-

यत् त्वयेति ।