श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
किरीटिनं गदिनं चक्रिणं तेजोराशिं सर्वतोदीप्तिमन्तम्
पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्दीप्तानलार्कद्युतिमप्रमेयम् ॥ १७ ॥
किरीटिनं किरीटं नाम शिरोभूषणविशेषः तत् यस्य अस्ति सः किरीटी तं किरीटिनम् , तथा गदिनं गदा अस्य विद्यते इति गदी तं गदिनम् , तथा चक्रिणं चक्रम् अस्य अस्तीति चक्री तं चक्रिणं , तेजोराशिं तेजःपुञ्जं सर्वतोदीप्तिमन्तं सर्वतोदीप्तिः अस्य अस्तीति सर्वतोदीप्तिमान् , तं सर्वतोदीप्तिमन्तं पश्यामि त्वां दुर्निरीक्ष्यं दुःखेन निरीक्ष्यः दुर्निरीक्ष्यः तं दुर्निरीक्ष्यं समन्तात् समन्ततः सर्वत्र दीप्तानलार्कद्युतिम् अनलश्च अर्कश्च अनलार्कौ दीप्तौ अनलार्कौ दीप्तानलार्कौ तयोः दीप्तानलार्कयोः द्युतिरिव द्युतिः तेजः यस्य तव त्वं दीप्तानलार्कद्युतिः तं त्वां दीप्तानलार्कद्युतिम् , अप्रमेयं प्रमेयम् अशक्यपरिच्छेदम् इत्येतत् ॥ १७ ॥

परिच्छिन्नत्वं व्यावर्तयति-

सर्वत इति ।

दुर्निरीक्ष्यं पश्यामि - इति अधिकारिभेदान् अविरुद्धम् । पुरतो वा पृष्ठतो वा पार्श्वतो वा न अस्य दर्शनम् , किन्तु सर्वत्र, इत्याह-

समन्तत इति ।

दीप्तिमत्वं दृष्टान्तेन स्पष्टयति-

दीप्तेति

॥ १७ ॥