श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
त्वमक्षरं परमं वेदितव्यं
त्वमस्य विश्वस्य परं निधानम्
त्वमव्ययः शाश्वतधर्मगोप्ता
सनातनस्त्वं पुरुषो मतो मे ॥ १८ ॥
इत एव ते योगशक्तिदर्शनात् अनुमिनोमि —

सप्रपञ्चे भगवद्रूपे प्रकृते, प्रकरणविरुद्धं त्वम् अक्षरम् इत्यादि निरुपाधिकवचनम् , इत्याशङ्क्य, आह-

इत एवेति ।

योगशक्तिः - ऐश्वर्यातिशयः । न क्षरति इति निष्प्रपञ्चत्वम् उच्यते । परमपुरुषार्थत्वात् परमार्थत्वाच्च ज्ञातव्यत्वम् । यस्मिन् द्यौः पृथिवी इत्यादौ प्रपञ्चायतनस्यैव ततो निकृष्टस्य ज्ञातव्यत्वश्रवणात् ।