असुरसङ्घाः इति पदञ्छित्वा भूभारभूता दुर्योधनादयः त्वां विशन्ति इत्यपि वक्तव्यम् । उभयोरपि सेनयोः अवस्थितेषु योद्धुकामेषु अवान्तरविशेषम् आह-
तत्रेति ।
समरभूमौ समागतानां द्रष्टुकामानां नारदप्रभृतीनां विश्वविनाशम् आशङ्कमानानां तं परिजिहीर्षतां स्तुतिपदेषु भगवद्विषयेषु प्रवृत्तिप्रकारं दर्शयति-
युद्धे इति
॥ २१ ॥