श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अमी हि त्वा सुरसङ्घा विशन्ति
केचिद्भीताः प्राञ्जलयो गृणन्ति
स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः
स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥ २१ ॥
अमी हि युध्यमाना योद्धारः त्वा त्वां सुरसङ्घाः ये अत्र भूभारावताराय अवतीर्णाः वस्वादिदेवसङ्घाः मनुष्यसंस्थानाः त्वां विशन्ति प्रविशन्तः दृश्यन्ते । तत्र केचित् भीताः प्राञ्जलयः सन्तो गृणन्ति स्तुवन्ति त्वाम् अन्ये पलायनेऽपि अशक्ताः सन्तः । युद्धे प्रत्युपस्थिते उत्पातादिनिमित्तानि उपलक्ष्य स्वस्ति अस्तु जगतः इति उक्त्वा महर्षिसिद्धसङ्घाः महर्षीणां सिद्धानां च सङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः सम्पूर्णाभिः ॥ २१ ॥

असुरसङ्घाः इति पदञ्छित्वा भूभारभूता दुर्योधनादयः त्वां विशन्ति इत्यपि वक्तव्यम् । उभयोरपि सेनयोः अवस्थितेषु योद्धुकामेषु अवान्तरविशेषम् आह-

तत्रेति ।

समरभूमौ समागतानां द्रष्टुकामानां नारदप्रभृतीनां विश्वविनाशम् आशङ्कमानानां तं परिजिहीर्षतां स्तुतिपदेषु भगवद्विषयेषु प्रवृत्तिप्रकारं दर्शयति-

युद्धे इति

॥ २१ ॥