मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
श्रीमद्भगवद्गीताभाष्यम्
एकादशोऽध्यायः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
आनन्दगिरिटीका (गीताभाष्य)
रूपं
महत्ते
बहुवक्त्रनेत्रं
महाबाहो
बहुबाहूरुपादम्
।
बहूदरं
बहुदंष्ट्राकरालं
दृष्ट्वा
लोकाः
प्रव्यथितास्तथाहम्
॥ २३ ॥
रूपं महत् अतिप्रमाणं ते तव बहुवक्त्रनेत्रं बहूनि वक्त्राणि मुखानि नेत्राणि चक्षूंषि च यस्मिन् तत् रूपं बहुवक्त्रनेत्रम् , हे महाबाहो, बहुबाहूरुपादं बहवो बाहवः ऊरवः पादाश्च यस्मिन् रूपे तत् बहुबाहूरुपादम् , किञ्च, बहूदरं बहूनि उदराणि यस्मिन्निति बहूदरम् , बहुदंष्ट्राकरालं बह्वीभिः दंष्ट्राभिः करालं विकृतं तत् बहुदंष्ट्राकरालम् , दृष्ट्वा रूपम् ईदृशं लोकाः लौकिकाः प्राणिनः प्रव्यथिताः प्रचलिताः भयेन ; तथा अहमपि ॥ २३ ॥
तथेति
;
भयेन लौकिकवत् अहमपि व्यथितः - व्यथाम् पीडाम् देहेन्द्रियप्रचलनम् प्राप्तोऽस्मि, इत्याह-
तथेति
॥ २३ ॥