मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
श्रीमद्भगवद्गीताभाष्यम्
एकादशोऽध्यायः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
आनन्दगिरिटीका (गीताभाष्य)
अमी
च
त्वां
धृतराष्ट्रस्य
पुत्राः
सर्वे
सहैवावनिपालसङ्घैः
।
भीष्मो
द्रोणः
सूतपुत्रस्तथासौ
सहास्मदीयैरपि
योधमुख्यैः
॥ २६ ॥
अमी च त्वां धृतराष्ट्रस्य पुत्राः दुर्योधनप्रभृतयः — ‘त्वरमाणाः विशन्ति’ इति व्यवहितेन सम्बन्धः — सर्वे सहैव सहिताः अवनिपालसङ्घैः अवनिं पृथ्वीं पालयन्तीति अवनिपालाः तेषां सङ्घैः, किञ्च भीष्मो द्रोणः सूतपुत्रः कर्णः तथा असौ सह अस्मदीयैरपि धृष्टद्युम्नप्रभृतिभिः योधमुख्यैः योधानां मुख्यैः प्रधानैः सह ॥ २६ ॥
किं चेति
;
न केवलं दुर्योदनादीनामेव पराजयः, किं तु भीष्मादीनामपि, इत्याह-
किं चेति
॥ २६ ॥