मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
श्रीमद्भगवद्गीताभाष्यम्
एकादशोऽध्यायः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
आनन्दगिरिटीका (गीताभाष्य)
अमी
च
त्वां
धृतराष्ट्रस्य
पुत्राः
सर्वे
सहैवावनिपालसङ्घैः
।
भीष्मो
द्रोणः
सूतपुत्रस्तथासौ
सहास्मदीयैरपि
योधमुख्यैः
॥ २६ ॥
अमी
च
त्वां
धृतराष्ट्रस्य
पुत्राः
दुर्योधनप्रभृतयः
— ‘
त्वरमाणाः
विशन्ति
’
इति
व्यवहितेन
सम्बन्धः
—
सर्वे
सहैव
सहिताः
अवनिपालसङ्घैः
अवनिं
पृथ्वीं
पालयन्तीति
अवनिपालाः
तेषां
सङ्घैः
,
किञ्च
भीष्मो
द्रोणः
सूतपुत्रः
कर्णः
तथा
असौ
सह
अस्मदीयैरपि
धृष्टद्युम्नप्रभृतिभिः
योधमुख्यैः
योधानां
मुख्यैः
प्रधानैः
सह
॥ २६ ॥
किं चेति
;
न केवलं दुर्योदनादीनामेव पराजयः, किं तु भीष्मादीनामपि, इत्याह-
किं चेति
॥ २६ ॥