श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अमी त्वां धृतराष्ट्रस्य पुत्राः
सर्वे सहैवावनिपालसङ्घैः
भीष्मो द्रोणः सूतपुत्रस्तथासौ
सहास्मदीयैरपि योधमुख्यैः ॥ २६ ॥
येभ्यो मम पराजयाशङ्का या आसीत् सा च अपगता । यतः —

अस्माकं जयं परेषां पराजयं च (दिदृक्षन्तं) दिदृक्षुं त्वां पश्यामि इत्याह-

येभ्य इति ।

तत्र हेतुत्वेन श्लोकम् अवतारयति-

यत इति ।