मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
श्रीमद्भगवद्गीताभाष्यम्
एकादशोऽध्यायः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
आनन्दगिरिटीका (गीताभाष्य)
लेलिह्यसे
ग्रसमानः
समन्ताल्लोकान्समग्रान्वदनैर्ज्वलद्भिः
।
तेजोभिरापूर्य
जगत्समग्रं
भासस्तवोग्राः
प्रतपन्ति
विष्णो
॥ ३० ॥
लेलिह्यसे आस्वादयसि ग्रसमानः अन्तः प्रवेशयन् समन्तात् समन्ततः लोकान् समग्रान् समस्तान् वदनैः वक्त्रैः ज्वलद्भिः दीप्यमानैः तेजोभिः आपूर्य संव्याप्य जगत् समग्रं सह अग्रेण समस्तम् इत्येतत् । किञ्च, भासः दीप्तयः तव उग्राः क्रूराः प्रतपन्ति प्रतापं कुर्वन्ति हे विष्णो व्यापनशील ॥ ३० ॥
किञ्चेति
;
भगवत्प्रवृत्तिमेव प्रत्याय्य, तदीयभासां प्रवृत्तिं प्रकटयति-
किञ्चेति
॥ ३० ॥