श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद
विज्ञातुमिच्छामि भवन्तमाद्यं हि प्रजानामि तव प्रवृत्तिम् ॥ ३१ ॥
आख्याहि कथय मे मह्यं कः भवान् उग्ररूपः क्रूराकारः, नमः अस्तु ते तुभ्यं हे देववर देवानां प्रधान, प्रसीद प्रसादं कुरुविज्ञातुं विशेषेण ज्ञातुम् इच्छामि भवन्तम् आद्यम् आदौ भवम् आद्यम् , हि यस्मात् प्रजानामि तव त्वदीयां प्रवृत्तिं चेष्टाम् ॥ ३१ ॥

उपदेशं शुश्रूषमाणेन उपदेशकर्तुः प्रह्वीभवनं कर्तव्यम् , इति सूचयति-

नमोऽस्त्विति ।

क्रौर्यत्यागम् अर्थयते -

प्रसादमिति ।

त्वमेव मां जानीषे, किमर्थम् इत्थम् इदानीम् अर्थयसे ? मदीयां चेष्टां दृष्ट्वा तथैव प्रतिपद्यस्व, इत्याशङ्क्य आह-

न हीति

॥ ३१ ॥