स्वयं यदर्था च स्वप्रवृत्तिः, तत्सर्वं भगवान् उक्तवान् , इत्याह-
श्री भगवानिति ।
कालः - क्रियाशक्त्युपहितः परमेश्वरः, अस्मिन् इति वर्तमानयुद्धोपलक्षितत्वं कालस्य विवक्षितम् - लोकसंहारार्थं त्वत्प्रवृत्तावपि न असौ अर्थवती, प्रतिपक्षाणां भीष्मादीनां मत्प्रवृत्तिं विना संहर्तुम् अशक्यत्वात् , इत्याशङ्क्य, आह-
ऋतेऽपीति
॥ ३२ ॥