यशोलाभम् अभिनयति-
भीष्मेति ।
किं तेन अपुमर्थेन ? इति आशङ्क्य आह-
पुण्यैरिति ।
राज्यभोेगे अपेक्षिते, किम् अनपेक्षितेन ? इत्याशङ्क्य आह-
जित्वेति ।
भीष्मादिषु अतिरथेषु सत्सु, कुतो जयाशङ्का ? इति आशङ्क्य आह-
मयैवैते इति ।
तर्हि मृतमारणार्थं न मे प्रवृत्तिः, तत्र आह-
निमित्तेति ।
सव्यसाचीपदं विभजते-
वामेनेति
॥ ३३ ॥