श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
तस्मात्त्वमुत्तिष्ठ यशो लभस्व
जित्वा शत्रून्भुङ्क्ष्व राज्यं समृद्धम्
मयैवैते निहताः पूर्वमेव
निमित्तमात्रं भव सव्यसाचिन् ॥ ३३ ॥
यस्मात् एवम् —

तव अौदासीन्येऽपि प्रतिकूलानीकस्थाः मत्प्रातिकूल्यादेव न भविष्यन्ति, इत्येवं यस्मान् निश्चितम् , तस्मात् त्वदौदासीन्यम् अकिञ्चित्करम् , इत्याह-

यस्मादिति ।

उत्तिष्ठ - युद्धाय उन्मुखी भव, इत्यर्थः ।