‘मया एव’ इत्यादिना उक्तम् प्रपञ्चयति-
द्रोणं चेति ।
किमिति कतिचिदेव अत्र द्रोणादयो गण्यन्ते ? तत्र आह-
येष्विति ।
द्रोणादिषु कुतः शङ्का ? इत्याशङ्क्य, द्वयोः शङ्कानिमित्तम् आह-
तत्रेत्यादिना ।
जयद्रथेऽपि शङ्कानिमित्तम् आह-
तथेति ।
दिव्यास्त्रसम्पन्नः इति सम्बन्धः ।
तत्र शङ्कायां कारणान्तरम् आह-
यस्येति ।
कर्णेऽपि तत्कारणत्वं कथयति-
कर्णेऽपीति ।
पूर्ववदेव सम्बन्धः ।
हेत्वन्तरम् आह-
वासवेति ।
सा खलु अमोघा पुरुषम् एकम् अत्यन्तसमर्थं घातयित्वैव निवर्तते । जन्मनापि तस्य शङ्कनीयत्वम् आह-
सूर्येति ।
कुन्ती हि कन्यावस्थायां मन्त्रप्रभावं ज्ञातुम् आदित्यम् आजुहाव । ततः तस्यामेव अवस्थायाम् अयम् उद् - बभूव, तदाह-
कानीन इति ।
एतदेव अभिप्रेत्य कर्णग्रहणम् इत्याह-
यत इति ।
उक्तेषु अन्युेषु च न त्वया शङ्कितव्यम् , इत्याह-
मयेति
॥ ३४ ॥