श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सञ्जय उवाच
एतच्छ्रुत्वा वचनं केशवस्य
कृताञ्जलिर्वेपमानः किरीटी
नमस्कृत्वा भूय एवाह कृष्णं
सगद्गदं भीतभीतः प्रणम्य ॥ ३५ ॥
एतत् श्रुत्वा वचनं केशवस्य पूर्वोक्तं कृताञ्जलिः सन् वेपमानः कम्पमानः किरीटी नमस्कृत्वा, भूयः पुनः एव आह उक्तवान् कृष्णं सगद्गदं भयाविष्टस्य दुःखाभिघातात् स्नेहाविष्टस्य हर्षोद्भवात् , अश्रुपूर्णनेत्रत्वे सति श्लेष्मणा कण्ठावरोधः ; ततश्च वाचः अपाटवं मन्दशब्दत्वं यत् गद्गदः तेन सह वर्तत इति सगद्गदं वचनम् आह इति वचनक्रियाविशेषणम् एतत्भीतभीतः पुनः पुनः भयाविष्टचेताः सन् प्रणम्य प्रह्वः भूत्वा, ‘आहइति व्यवहितेन सम्बन्धः

पराजयभयात् करिष्यति सन्धिम् , इति बुद्ध्या सञ्जयो राज्ञे वृत्तान्तम् उक्तवान् , इत्याह-

सञ्जय इति ।

पूर्वोक्तवचनम् - कालोऽस्मि, इत्यादि ।