किं तत् अर्जुनो भगवन्तं प्रति सगद्गदं वचनम् उक्तवान् ? इति, तदाह-
अर्जुन इति ।
विषयविशेषणत्वम् एव व्यनक्ति-
युक्त इति ।
भगवतो हर्षादिविषयत्वं युक्तम् इत्यत्र हेतुम् आह-
यत इति ।
तव प्रकीर्त्या हर्षवत् अनुरागं च गच्छति जगत् , इत्याह-
तथेति ।
तच्चेति अनुरागगमनम् ।
रक्षःसु जगदेकदेशभूतेषु प्रतिपक्षेषु, कुतो जगतो भवति हर्षानुरागौ, इत्याशङ्क्य, आह-
किं चेति ।
इतश्च जगतो भगवति हर्षादि युक्तम् , इत्याह-
सर्व इति
॥ ३६ ॥