महात्मत्वम् - अक्षुद्रचेतस्त्वम् । गुरुतरत्वात् नमस्कारादियोग्यत्वम् आह-
गुरुतरायेति ।
तत्रैव हेत्वन्तरम् आह-
यत इति ।
महात्मत्वादिहेतूनांं मुक्तानां फलम् आह-
अत इति ।
तत्रैव हेत्वन्तराणि सूचयति-
हे अनन्तेति ।
अनवच्छिन्नत्वं, सर्वदेवनियन्तृत्वं, सर्वजगदाश्रयत्वं च तव नमस्कारादियोग्यत्वे कारणम् , इत्यर्थः ।
तत्रैव हेत्वन्तरम् आह-
त्वमिति ।
तत्र मानम् आह-
यदिति ।
कथम् एकस्यैव सदसद्रूपत्वम् ? तत्र आह-
ते इति ।
कथं सतोऽसतश्च अक्षरं प्रति उपाधित्वम् ? तदाह-
यद्द्वारेणेति ।
तत्परं यदित्येतत् व्याचष्टे-
परमार्थतस्त्विति ।
अनन्तत्वादिना भगवतो नमस्कारादियोग्यत्वम् उक्तम्
॥ ३७ ॥