कस्माच्च ते न नमेरन्महात्मन्गरीयसे ब्रह्मणोऽप्यादिकर्त्रे ।
अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत् ॥ ३७ ॥
कस्माच्च हेतोः ते तुभ्यं न नमेरन् नमस्कुर्युः हे महात्मन् , गरीयसे गुरुतराय ; यतः ब्रह्मणः हिरण्यगर्भस्य अपि आदिकर्ता कारणम् अतः तस्मात् आदिकर्त्रे । कथम् एते न नमस्कुर्युः ? अतः हर्षादीनां नमस्कारस्य च स्थानं त्वं अर्हः विषयः इत्यर्थः । हे अनन्त देवेश हे जगन्निवास त्वम् अक्षरं तत् परम् , यत् वेदान्तेषु श्रूयते । किं तत् ? सदसत् इति । सत् विद्यमानम् , असत् च यत्र नास्ति इति बुद्धिः ; ते उपधानभूते सदसती यस्य अक्षरस्य, यद्द्वारेण सदसती इति उपचर्यते । परमार्थतस्तु सदसतोः परं तत् अक्षरं यत् अक्षरं वेदविदः वदन्ति । तत् त्वमेव, न अन्यत् इति अभिप्रायः ॥ ३७ ॥