श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
त्वमादिदेवः पुरुषः पुराणस्त्वमस्य विश्वस्य परं निधानम्
वेत्तासि वेद्यं परं धाम त्वया ततं विश्वमनन्तरूप ॥ ३८ ॥
त्वम् आदिदेवः, जगतः स्रष्टृत्वात् । पुरुषः, पुरि शयनात् पुराणः चिरन्तनः त्वम् एव अस्य विश्वस्य परं प्रकृष्टं निधानं निधीयते अस्मिन् जगत् सर्वं महाप्रलयादौ इति । किञ्च, वेत्ता असि, वेदिता असि सर्वस्यैव वेद्यजातस्य । यत् च वेद्यं वेदनार्हं तच्च असि परं च धाम परमं पदं वैष्णवम् । त्वया ततं व्याप्तं विश्वं समस्तम् , हे अनन्तरूप अन्तो न विद्यते तव रूपाणाम् ॥ ३८ ॥

जगतः स्रष्टा पुरुषो हिरण्यगर्भः, इति पक्षं प्रत्याह-

पुराण इति ।

स्रष्टृत्वं निमित्तमेव, इति तटस्थेश्वरवादिनः । तान्प्रति उक्तम्-

त्वमेवेति ।

महाप्रलयादौ इति आदिपदम् अवान्तरप्रलयार्थम् ।

ईश्वरस्य उभयथा कारणत्वं सर्वज्ञत्वेन साधयति-

किञ्चेति ।

वेद्यवेदितृभावेन अद्वैतानुपपत्तिम् आशङ्क्य आह-

यच्चेति ।

मुक्त्यालम्बनस्य  ब्रह्मणोऽर्थान्तरत्वम् आशङ्कित्वा उक्तम्-

परं चेति ।

यत् परमं पदं, तदपि च त्वमेव, इति सम्बन्धः ।

तस्य पूर्णत्वम् आह-

त्वयेति ।

व्याप्यव्यापकत्वेन भेदं शङ्कित्वा, कल्पितत्वात् तस्य मैवम् , इत्याह-

अनन्तेति

॥ ३८ ॥