जगतः स्रष्टा पुरुषो हिरण्यगर्भः, इति पक्षं प्रत्याह-
पुराण इति ।
स्रष्टृत्वं निमित्तमेव, इति तटस्थेश्वरवादिनः । तान्प्रति उक्तम्-
त्वमेवेति ।
महाप्रलयादौ इति आदिपदम् अवान्तरप्रलयार्थम् ।
ईश्वरस्य उभयथा कारणत्वं सर्वज्ञत्वेन साधयति-
किञ्चेति ।
वेद्यवेदितृभावेन अद्वैतानुपपत्तिम् आशङ्क्य आह-
यच्चेति ।
मुक्त्यालम्बनस्य ब्रह्मणोऽर्थान्तरत्वम् आशङ्कित्वा उक्तम्-
परं चेति ।
यत् परमं पदं, तदपि च त्वमेव, इति सम्बन्धः ।
तस्य पूर्णत्वम् आह-
त्वयेति ।
व्याप्यव्यापकत्वेन भेदं शङ्कित्वा, कल्पितत्वात् तस्य मैवम् , इत्याह-
अनन्तेति
॥ ३८ ॥