पितामहः - ब्रह्मा, तस्य पिता सूत्रात्मा अन्तर्यामी च, इत्याह-
ब्रह्मणोऽपीति ।
सर्वदेवताः त्वमेव इत्युक्ते फलितम् आह-
नम इति ।
सहस्रकृत्वः इति कृत्वसुचो विवक्षितम् अर्थम् आह-
बहुश इति ।
पुनरुक्तितात्पर्यम् आह-
पुनश्चेति ।
श्रद्धाभक्त्योः अतिशयात् कृतेऽपि नमस्कारे परितोषाभावो बुद्धेः - आत्मनो अलंप्रत्ययराहित्यं, तद्दर्शनार्थं पुनरुक्तिः इत्यर्थः
॥ ३९ ॥