श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
वायुर्यमोऽग्निर्वरुणः शशाङ्कः
प्रजापतिस्त्वं प्रपितामहश्च
नमो नमस्तेऽस्तु सहस्रकृत्वः
पुनश्च भूयोऽपि नमो नमस्ते ॥ ३९ ॥
वायुः त्वं यमश्च अग्निः वरुणः अपां पतिः शशाङ्कः चन्द्रमाः प्रजापतिः त्वं कश्यपादिः प्रपितामहश्च पितामहस्यापि पिता प्रपितामहः, ब्रह्मणोऽपि पिता इत्यर्थःनमो नमः ते तुभ्यम् अस्तु सहस्रकृत्वःपुनश्च भूयोऽपि नमो नमः तेबहुशो नमस्कारक्रियाभ्यासावृत्तिगणनं कृत्वसुचा उच्यते । ‘पुनश्च’ ‘भूयोऽपिइति श्रद्धाभक्त्यतिशयात् अपरितोषम् आत्मनः दर्शयति ॥ ३९ ॥

पितामहः - ब्रह्मा, तस्य पिता सूत्रात्मा अन्तर्यामी च, इत्याह-

ब्रह्मणोऽपीति ।

सर्वदेवताः त्वमेव इत्युक्ते फलितम् आह-

नम इति ।

सहस्रकृत्वः इति कृत्वसुचो विवक्षितम् अर्थम् आह-

बहुश इति ।

पुनरुक्तितात्पर्यम् आह-

पुनश्चेति ।

श्रद्धाभक्त्योः अतिशयात् कृतेऽपि नमस्कारे परितोषाभावो बुद्धेः - आत्मनो अलंप्रत्ययराहित्यं, तद्दर्शनार्थं पुनरुक्तिः इत्यर्थः

॥ ३९ ॥