श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
पितासि लोकस्य चराचरस्य
त्वमस्य पूज्यश्च गुरुर्गरीयान्
त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो
लोकत्रयेऽप्यप्रतिमप्रभाव ॥ ४३ ॥
यतः त्वम् —

वाचनिकं मदीयम् अपराधजातं त्वया क्षन्तव्यम् इत्युक्तम् ; इदानीं मदीयो योऽपराधो न त्वया गृहीतव्यः, गृहीतोऽपि सोढव्यः, इत्याह-

यत इति ।