श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
तस्मात्प्रणम्य प्रणिधाय कायं
प्रसादये त्वामहमीशमीड्यम्
पितेव पुत्रस्य सखेव सख्युः
प्रियः प्रियायार्हसि देव सोढुम् ॥ ४४ ॥
तस्मात् प्रणम्य नमस्कृत्य, प्रणिधाय प्रकर्षेण नीचैः धृत्वा कायं शरीरम् , प्रसादये प्रसादं कारये त्वाम् अहम् ईशम् ईशितारम् , ईड्यं स्तुत्यम्त्वं पुनः पुत्रस्य अपराधं पिता यथा क्षमते, सर्वं सखा इव सख्युः अपराधम् , यथा वा प्रियः प्रियायाः अपराधं क्षमते, एवम् अर्हसि हे देव सोढुं प्रसहितुम् क्षन्तुम् इत्यर्थः ॥ ४४ ॥

प्रसादनानन्तरं भगवता कर्तव्यं प्रार्थयते-

त्वं पुनरिति ।

प्रिय इव प्रियायाः, इति इवकारोऽनुषज्यते । ‘ प्रियायार्हसि’ इति छान्दसः सन्धिः । क्षन्तुं मदपराधजातम् , इति शेषः

॥ ४४ ॥