तदेव दर्शय इत्युक्तम् । किं तत् इत्यापेक्षायाम् आह-
किरीटिनमिति ।
चक्रं हस्ते यस्य, तम् - इति व्युत्पत्तिं गृहीत्वा, आह-
चक्रेति ।
मदीयेच्छा फलपर्यन्ता कर्तव्या, इ्त्याह-
यत इति ।
चतुर्भुजत्वे कथं सहस्रबाहुत्वम् ? तत्र आह-
वार्तमानिकेनेति ।
सति विश्वरूपे, कथं पूर्वरूपभाक्त्वम् ? तत्र आह-
उपसंहृत्येति
॥ ४६ ॥