श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
किरीटिनं गदिनं चक्रहस्तमिच्छामि त्वां द्रष्टुमहं तथैव
तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते ॥ ४६ ॥
किरीटिनं किरीटवन्तं तथा गदिनं गदावन्तं चक्रहस्तम् इच्छामि त्वां प्रार्थये त्वां द्रष्टुम् अहं तथैव, पूर्ववत् इत्यर्थःयतः एवम् , तस्मात् तेनैव रूपेण वसुदेवपुत्ररूपेण चतुर्भुजेन, सहस्रबाहो वार्तमानिकेन विश्वरूपेण, भव विश्वमूर्ते ; उपसंहृत्य विश्वरूपम् , तेनैव रूपेण भव इत्यर्थः ॥ ४६ ॥

तदेव दर्शय इत्युक्तम् । किं तत् इत्यापेक्षायाम् आह-

किरीटिनमिति ।

चक्रं हस्ते यस्य, तम् - इति व्युत्पत्तिं गृहीत्वा, आह-

चक्रेति ।

मदीयेच्छा फलपर्यन्ता कर्तव्या, इ्त्याह-

यत इति ।

चतुर्भुजत्वे कथं सहस्रबाहुत्वम् ? तत्र आह-

वार्तमानिकेनेति ।

सति विश्वरूपे, कथं पूर्वरूपभाक्त्वम् ? तत्र आह-

उपसंहृत्येति

॥ ४६ ॥