मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
श्रीमद्भगवद्गीताभाष्यम्
एकादशोऽध्यायः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
आनन्दगिरिटीका (गीताभाष्य)
श्रीभगवानुवाच —
मया
प्रसन्नेन
तवार्जुनेदं
रूपं
परं
दर्शितमात्मयोगात्
।
तेजोमयं
विश्वमनन्तमाद्यं
यन्मे
त्वदन्येन
न
दृष्टपूर्वम्
॥ ४७ ॥
मया प्रसन्नेन, प्रसादो नाम त्वयि अनुग्रहबुद्धिः, तद्वता प्रसन्नेन मया तव हे अर्जुन, इदं परं रूपं विश्वरूपं दर्शितम् आत्मयोगात् आत्मनः ऐश्वर्यस्य सामर्थ्यात् । तेजोमयं तेजःप्रायं विश्वं समस्तम् अनन्तम् अन्तरहितं आदौ भवम् आद्यं यत् रूपं मे मम त्वदन्येन त्वत्तः अन्येन केनचित् न दृष्टपूर्वम् ॥ ४७ ॥
मयेति
;
भगवत्प्रसादैकोपायलभ्यं तद्दर्शनम् , इत्याशयेन आह-
मयेति
॥ ४७ ॥