श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
श्रीभगवानुवाच —
मया प्रसन्नेन तवार्जुनेदं
रूपं परं दर्शितमात्मयोगात्
तेजोमयं विश्वमनन्तमाद्यं
यन्मे त्वदन्येन दृष्टपूर्वम् ॥ ४७ ॥
अर्जुनं भीतम् उपलभ्य, उपसंहृत्य विश्वरूपम् , प्रियवचनेन आश्वासयन् श्रीभगवान् उवाच —

अर्जुनेन ‘स्थाने हृषीकेश’ (भ. गी. ११-३६) इत्यादिना उक्तस्य भगवतो वचनम् अवतारयति-

अर्जुनमिति ।