श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
मत्कर्मकृन्मत्परमो
मद्भक्तः सङ्गवर्जितः
निर्वैरः सर्वभूतेषु
यः मामेति पाण्डव ॥ ५५ ॥
मत्कर्मकृत् मदर्थं कर्म मत्कर्म, तत् करोतीति मत्कर्मकृत् । मत्परमः — करोति भृत्यः स्वामिकर्म, न तु आत्मनः परमा प्रेत्य गन्तव्या गतिरिति स्वामिनं प्रतिपद्यते ; अयं तु मत्कर्मकृत् मामेव परमां गतिं प्रतिपद्यते इति मत्परमः, अहं परमः परा गतिः यस्य सोऽयं मत्परमः । तथा मद्भक्तः मामेव सर्वप्रकारैः सर्वात्मना सर्वोत्साहेन भजते इति मद्भक्तः । सङ्गवर्जितः धनपुत्रमित्रकलत्रबन्धुवर्गेषु सङ्गवर्जितः सङ्गः प्रीतिः स्नेहः तद्वर्जितः । निर्वैरः निर्गतवैरः सर्वभूतेषु शत्रुभावरहितः आत्मनः अत्यन्तापकारप्रवृत्तेष्वपि । यः ईदृशः मद्भक्तः सः माम् एति, अहमेव तस्य परा गतिः, न अन्या गतिः काचित् भवति । अयं तव उपदेशः इष्टः मया उपदिष्टः हे पाण्डव इति ॥ ५५ ॥

मत्कर्मकृदित्युक्ते, मत्परमत्वम् आर्थिकमिति पुनरुक्तिः, इत्याशङ्क्य आह-

करोतीति ।

भगवानेव परमा गतिः इति निश्चयवतः तत्रैव निष्ठा सिध्यति, इत्याह-

तथेति ।

न तत्रैव सर्वप्रकारैः भजनम् , धनादिस्नेहाकृष्टत्वात् , इत्याशङ्क्य आह-

सङ्गेति ।

द्वेषपूर्वकानिष्टाचरणं वैरम् , अनपकारिषु तदभावेऽपि भवत्येव अपकारिषु इति शङ्कित्वा आह-

आत्मन इति ।

एतच्च सर्वं सङ्क्षिप्य अनुष्ठानार्थम् उक्तम् । एवम् अनुतिष्ठतो भगवत्प्राप्तिः अवश्यं भाविनी, इत्युपसंहरति-

अयमिति ।

तदेवं भगवतो विश्वरूपस्य सर्वात्मनः सर्वज्ञस्य सर्वेश्वरस्य मत्कर्मकृदित्यादिन्यायेन क्रममुक्तिफलम् अभिध्यानम् अभिवदता तत्पदवाच्योऽर्थो व्यवस्थापितः

॥ ५५ ॥

इति श्रीमत्परमहंस - परिव्रजकाचार्य - श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञान - विरचिते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने एकादशोऽध्यायः ॥ ११ ॥