अव्यक्तत्वम् अनिर्देश्यत्वे हेतुः, इत्याह -
अव्यक्तत्वादिति ।
यतोऽव्यक्तम् , अतः अनिर्देश्यम् , इति योजना ।
निरुपाधिकेऽक्षरे कथम् उपासना? इति पृच्छति -
उपासनमिति ।
शास्रतोऽक्षरं ज्ञात्वा, तदुपेत्य, आत्मत्वेन उपगम्य, आसते तथैव तिष्ठन्ति - पूर्णचिदेकतानम् अक्षरम् आत्मनामेव सदा भावयन्ति, इत्येतत् इह विवक्षितम् , इत्याह -
यथेति ।
अव्यक्तत्वम् एव अचिन्त्यत्वेऽपि हेतुः, इत्याह -
यद्धि इति ।
कूटस्थशब्दस्य उक्तार्थत्वं वृद्धप्रयोगतः साधयति -
कूटरूपमिति ।
आदिपदम् अनृतार्थम् । प्रकृते किं तद् अनृतं कूटशब्दितम् , इत्याशङ्क्य, आह -
तथा चेति ।
उक्तरीत्या कूटशब्दस्य अनृतार्थत्वे सिद्धे, यदू अनेकस्य संसारस्य बीजं निरूप्यमाणं नानाविधदोषोपेतम् , ‘तद्धेदं तर्ह्यव्याकृतम्', (बृ. उ. १-४-७), ‘मायां तु प्रकृतिम्’ (श्वे.उ. ४ - १०) ‘मम माया’ (भ. गी. ७-१४), इत्यादौ मायाशब्दिततया प्रसिद्धम् अविद्यादि, तदिह कूटशब्दितम् इत्यर्थः ।
तत्र अवस्थानं केन रूपेण? इत्याशङ्कायाम् आह -
तदध्यक्षतया इति ।
कूटस्थशब्दस्य निष्क्रियत्वम् अर्थान्तरम् आह -
अथवेति ।
पूर्वम् उपजीव्य अनन्तरविषेषणद्वयप्रवृत्तिम् आह-
अत एवेति
॥ ३ ॥