श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते
सर्वत्रगमचिन्त्यं कूटस्थमचलं ध्रुवम् ॥ ३ ॥
किमितरे युक्ततमाः न भवन्ति ? न ; किन्तु तान् प्रति यत् वक्तव्यम् , तत् शृणु —

वक्ष्यामः तदुपरिष्टात् - इत्युक्तं प्रश्नपूर्वकं प्रकटयति -

किमित्यादिना ।

पूर्वेभ्यः फलतो विशेषार्थः तुशब्दः ।