श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम्
अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥ ५ ॥
क्लेशः अधिकतरः, यद्यपि मत्कर्मादिपराणां क्लेशः अधिक एव क्लेशः अधिकतरस्तु अक्षरात्मनां परमात्मदर्शिनां देहाभिमानपरित्यागनिमित्तः । अव्यक्तासक्तचेतसाम् अव्यक्ते आसक्तं चेतः येषां ते अव्यक्तासक्तचेतसः तेषाम् अव्यक्तासक्तचेतसाम् । अव्यक्ता हि यस्मात् या गतिः अक्षरात्मिका दुःखं सा देहवद्भिः देहाभिमानवद्भिः अवाप्यते, अतः क्लेशः अधिकतरः ॥ ५ ॥

अक्षरोपासनस्य दुष्करत्वात् , उपासनान्तरस्य सुकरत्वात् , इत्यभिप्रेत्य आह -

क्लेश इति ।

अधिक एव इतरेभ्यो द्वैतदर्शिभ्यः कामिभ्यः, इति शेषः ।

तेषां क्लेशस्य अधिकतरत्वे हेतुम् मत्वा, विशिनष्टि -

देहेति ।

अव्यक्तम् - अत्यन्तसूक्ष्मम् , निर्विशेषम् अक्षरम् , तस्मिन् आसक्तम् - अभिनिविष्टं चेतो येषां, तेषाम् - इति यावत् ।

अक्षरोपासकानां क्लेशस्य अधिकतरत्वे भगवानेव हेतुम् आह -

अव्यक्तेति ।

दुःखम् - दुःखेन, कृच्छ्रेण इति यावत् ।

अतः देहाभिमानत्यागात् , इत्यर्थः । ते कथं वर्तन्ते? तत्र आह -

अक्षरेति

॥ ५ ॥