मय्येव मन आधत्स्व मयि बुद्धिं निवेशय ।
निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ॥ ८ ॥
मयि एव विश्वरूपे ईश्वरे मनः सङ्कल्पविकल्पात्मकं आधत्स्व स्थापय । मयि एव अध्यवसायं कुर्वतीं बुद्धिम् आधत्स्व निवेशय । ततः ते किं स्यात् इति शृणु — निवसिष्यसि निवत्स्यसि निश्चयेन मदात्मना मयि निवासं करिष्यसि एव अतः शरीरपातात् ऊर्ध्वम् । न संशयः संशयः अत्र न कर्तव्यः ॥ ८ ॥