श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अभ्यासेऽप्यसमर्थोऽसि
मत्कर्मपरमो भव
मदर्थमपि कर्माणि
कुर्वन्सिद्धिमवाप्स्यसि ॥ १० ॥
अभ्यासे अपि असमर्थः असि अशक्तः असि, तर्हि मत्कर्मपरमः भव मदर्थं कर्म मत्कर्म तत्परमः मत्कर्मपरमः, मत्कर्मप्रधानः इत्यर्थःअभ्यासेन विना मदर्थमपि कर्माणि केवलं कुर्वन् सिद्धिं सत्त्वशुद्धियोगज्ञानप्राप्तिद्वारेण अवाप्स्यसि ॥ १० ॥

द्वैताभिनिवेशात् अभ्यासाधीने योगेऽपि सामर्थ्याभावे पुनः, उपायान्तरम् आह -

अभ्यासेऽपीति ।

अभ्यासयोगेन विना, भगवदर्थं कर्माणि कुर्वाणस्य किं स्यात् ? इति आशङ्क्य आह -

अभ्यासेनेति ।

सिद्धिः - ब्रह्मभावः । अपिः उक्तव्यवधिसूचनार्थः

॥ १० ॥