ननु, कर्मफलत्यागस्य सद्यः शान्तिकरत्वे, सम्यग्धीरेव तथा इति श्रुतिस्मृतिप्रसिद्धिः विरुध्येत, तत्र आह -
अज्ञस्येति
दीर्घेण कालेन आदरनैरन्तर्यानुष्ठितात् ध्यानात् वस्तुसाक्षात्कारद्वारा संसारदुःखोपशान्तेः तथाविधात् ध्यानात् त्यागस्य विशिष्टत्वोक्तेः तदीयस्तुतिः अत्र इष्टा, इत्याह -
अतश्चेति ।
तत्र हेतुम् आह -
सम्पन्नेति ।
सम्पन्नानि प्राप्तानि साधनानि अक्षरोपासनादीनि । तेषां मध्ये पूर्वपूर्वस्य अनुष्ठानाशक्तौ उत्तरोत्तरस्य अनुष्ठेयत्वेन उपदेशातु, त्यागे च उपदेशपर्यवसानात् , इत्यर्थः ।
त्यागे विशिष्टत्ववचनस्य केन साधर्म्येण तं प्रति स्तुतित्वम् ? इति पृच्छति -
केनेति ।
उत्तरम् आह -
यदेति ।
अमृतत्वम् उक्तम् ‘अथ मर्त्योऽमृतो भवति’ (बृ.उ. ४ - ४ - ७), (क. उ. ६ - १४, १५) इति शेषात् , इति शेषः ।
कामप्रहाणस्य अमृतत्वार्थत्वम् ‘अथाकामयमानः’ (बृ.उ. ४-४-६) इत्यादावपि सिद्धम् , इत्याह -
तदिति ।
कामत्यागस्य अमृतत्वहेतुत्वेऽपि, कथं कर्मफलत्यागस्य तद्धेतुत्वम् ? इत्याशङ्क्य आह -
कामाश्चेति ।
कर्मफलत्यागादेव शान्तिश्चेत् , ज्ञाननिष्ठा उपेक्षिता, इत्याशङ्क्य आह -
तत्त्यागे चेति ।
तथापि कथम् अज्ञस्य कर्मफलत्यागस्तुतिः? इत्याशङ्क्य आह -
इति सर्वेति ।
विद्यावतः त्यागवत् , अविद्वत्त्यागस्यापि त्यागत्वाविशेषात् विशिष्टत्वोक्तिः युक्ता, इति स्तुतिम् उपसंहरति -
इति तत्सामान्यादिति ।
किमर्था स्तुतिः? इत्याशङ्क्य, त्यागे रूचिम् उत्पाद्य प्रवर्तयितुम् इत्याह -
प्ररोचनार्थेति ।
त्यागस्तुतिं दृष्टान्तेन स्पष्टयति -
यथेति ।
फलत्यागः श्रेयोहेतुश्चेत् , कर्मत्यागादपि फलत्यागसिद्धेः, अलं कर्मानुष्ठानेनः इत्याशङ्क्य आह -
एवं कर्मेति ।
फलाभिलाषं त्यक्त्वा कर्मानुष्ठानस्य अर्पितस्य ईश्वरे, श्रेयोहेतुतया विवक्षितत्वात् न अनुष्ठानानर्थक्यम् , इत्यर्थः
॥ १२ ॥