श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते
ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥ १२ ॥
इदानीं सर्वकर्मफलत्यागं स्तौति —

उत्तरश्लोकतात्पर्यम् आह -

इदानीमिति ।

ज्ञानं - शब्दयुक्तिभ्याम् आत्मनिश्चयः अभ्यासः - ज्ञानार्थश्रवणाभ्यासः, निश्चयपूर्वकः ध्यानाभ्यासो वा । तस्य विशिष्यमाणत्वे साक्षात्कारहेतुत्वं हेतुः ।