अक्षरोपासकस्य ज्ञानवतो विशेषणान्तराणि आह -
सन्तुष्ट इति ।
सततम् इति सर्वत्र सम्बध्यते । कार्यकरणसङ्घातः स्वभावशब्दार्थः । स्थिरत्वं कृतर्कादिना अनभिभवनीयत्वम् । मद्भक्तः - मद्भजनपरः ज्ञानवान् इति यावत् ।
ज्ञानवतो भगवत्प्रियत्वे प्रमाणम् आह -
प्रियो हीति ।
किमर्थं तर्हि पुनरुच्यते? तत्र आह-
तदिहेति
॥ १४ ॥