उद्वेगादिराहित्यमपि ज्ञानवतो विशेषणम् , इत्याह -
यस्मादिति ।
न केवलम् उद्वेगं प्रति अपादानत्वमेव संन्यासिनोऽनुपपन्नम् , किं तु तत्कर्तृत्वमपि, इत्याह -
तथेति ।
असहिष्णुता, परकीयप्रकर्षस्य इति शेषः । त्रासः तस्करादिदर्शनाधीनः उद्धिग्नत्वम् अचेतनात् , चेतनाधीनस्य लोकादिति गतत्वात् , इति यावत्
॥ १५ ॥