निरपेक्षत्वादिकमपि ज्ञानिनो विशेषणम् इत्याह -
अनपेक्ष इति ।
आदिपदम् अपेक्षणीयसर्वसङ्ग्रहार्थम् , प्रतिपत्तव्येषु प्रतिपत्तुं, कर्तव्येषु कर्तुं च इत्यर्थः ।
परैः ताडितस्यापि गता व्यथा - भयम् अस्य, इति व्युत्पत्तिम् आश्रित्य आह -
गतेति ।
न च क्षमी इत्यनेनैव पौनरुक्त्यम् ; प्रत्युत्पन्नायामपि व्यथायाम् अपकर्तृषु अनपकर्तृत्वं क्षमित्वम् , इति अभ्युपगमात्
॥ १६ ॥