श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अनपेक्षः शुचिर्दक्ष
उदासीनो गतव्यथः
सर्वारम्भपरित्यागी
यो मद्भक्तः मे प्रियः ॥ १६ ॥
देहेन्द्रियविषयसम्बन्धादिषु अपेक्षाविषयेषु अनपेक्षः निःस्पृहः । शुचिः बाह्येन आभ्यन्तरेण च शौचेन सम्पन्नः । दक्षः प्रत्युत्पन्नेषु कार्येषु सद्यः यथावत् प्रतिपत्तुं समर्थः । उदासीनः न कस्यचित् मित्रादेः पक्षं भजते यः, सः उदासीनः यतिः । गतव्यथः गतभयः । सर्वारम्भपरित्यागी आरभ्यन्त इति आरम्भाः इहामुत्रफलभोगार्थानि कामहेतूनि कर्माणि सर्वारम्भाः, तान् परित्यक्तुं शीलम् अस्येति सर्वारम्भपरित्यागी यः मद्भक्तः सः मे प्रियः ॥ १६ ॥

निरपेक्षत्वादिकमपि ज्ञानिनो विशेषणम् इत्याह -

अनपेक्ष इति ।

आदिपदम् अपेक्षणीयसर्वसङ्ग्रहार्थम् , प्रतिपत्तव्येषु प्रतिपत्तुं, कर्तव्येषु कर्तुं च इत्यर्थः ।

परैः ताडितस्यापि गता व्यथा - भयम् अस्य, इति व्युत्पत्तिम् आश्रित्य आह -

गतेति ।

न च क्षमी इत्यनेनैव पौनरुक्त्यम् ; प्रत्युत्पन्नायामपि व्यथायाम् अपकर्तृषु अनपकर्तृत्वं क्षमित्वम् , इति अभ्युपगमात्

॥ १६ ॥