योनहृष्यतिनद्वेष्टि नशोचतिनकाङ्क्षति । शुभाशुभपरित्यागी भक्तिमान्यःसमेप्रियः ॥ १७ ॥
यः न हृष्यति इष्टप्राप्तौ, न द्वेष्टि अनिष्टप्राप्तौ, न शोचति प्रियवियोगे, न च अप्राप्तं काङ्क्षति, शुभाशुभे कर्मणी परित्यक्तुं शीलम् अस्य इति शुभाशुभपरित्यागी भक्तिमान् यः सः मे प्रियः ॥ १७ ॥